वीतराग स्तोत्र
शिवं
शुद्धबुद्धं
परं
विश्वनाथं,
न
देवो
न
बंधुर्न
कर्मा
न
कर्ता।
न
अङ्गं
न
सङ्गं
न
स्वेच्छा
न
कायं,
चिदानन्दरूपं नमो वीतरागम्॥ १॥
न
बन्धो
न
मोक्षो
न
रागादिदोष:,
न
योगं
न
भोगं
न
व्याधिर्न
शोक:।
न
कोपं
न
मानं
न
माया
न
लोभं,
चिदानन्दरूपं नमो वीतरागम्॥ २॥
न
हस्तौ
न
पादौ
न
घ्राणं
न
जिह्वा,
न
चक्षुर्न
कर्ण
न
वक्त्रं
न
निद्रा।
न
स्वामी
न
भृत्यो
न
देवो
न
मत्र्य:,
चिदानन्दरूपं नमो वीतरागम्॥ ३॥
न
जन्म
न
मृत्यु:
न
मोहं
न
चिंता,
न
क्षुद्रो
न
भीतो
न
काश्र्यं
न
तन्द्रा
।
न
स्वेदं
न
खेदं
न
वर्णं
न
मुद्रा,
चिदानन्दरूपं नमो वीतरागम् ॥ ४॥
त्रिदण्डे
त्रिखण्डे
हरे
विश्वनाथं,
हृषी-केशविध्वस्त-कर्मादिजालम् ।
न
पुण्यं
न
पापं
न
चाक्षादि-गात्रं,
चिदानन्दरूपं नमो वीतरागम् ॥ ५॥
न
बालो
न
वृद्धो
न
तुच्छो
न
मूढो,
न
स्वेदं
न
भेदं
न
मूर्तिर्न
स्नेह:
।
न
कृष्णं
न
शुक्लं
न
मोहं
न
तंद्रा,
चिदानन्दरूपं नमो वीतरागम् ॥ ६॥
न
आद्यं
न
मध्यं
न
अन्तं
न
चान्यत्,
न
द्रव्यं
न
क्षेत्रं
न
कालो
न
भाव:
।
न
शिष्यो
गुरुर्नापि
हीनं
न
दीनं,
चिदानन्दरूपं नमो वीतरागम् ॥ ७॥
इदं
ज्ञानरूपं
स्वयं
तत्त्ववेदी,
न
पूर्णं
न
शून्यं
न
चैत्यस्वरूपम् ।
न
चान्यो
न
भिन्नं
न
परमार्थमेकं,
चिदानन्दरूपं नमो वीतरागम् ॥ ८॥
आत्माराम
– गुणाकरं
गुणनिधिं,
चैतन्यरत्नाकरं,
सर्वे
भूतगता-गते
सुखदुखे,
ज्ञाते
त्वयि
सर्वगे,
त्रैलोक्याधिपते स्वयं स्वमनसा,
ध्यायन्ति
योगीश्वरा:,
वंदे
तं
हरिवंशहर्ष-हृदयं,
श्रीमान्
हृदाभ्युद्यताम् ॥ ९॥

टिप्पणियाँ
एक टिप्पणी भेजें